|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.4. अध्यायः 004
Mahabharata - Udyoga Parva - Chapter Topics
द्रुपदेन सात्यकिमतानुमोदनेन राज्ञामाह्वानाय दूतप्रस्थनकथनपूर्वकं स्वपुरोहितस्य धृतराष्ट्रंप्रति प्रेषणकथनम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text
द्रुपद उवाच। 5-4-0x(3332)(31756)
एवमेतन्महाबाहो भविष्यति न संशयः।
न हि दुर्योधनो राज्यं मधुरेण प्रदास्यति ॥ 5-4-1(31757)
अनुवर्त्स्यति तं चापि धृतराष्ट्रः सुतप्रियः।
भीष्मद्रोणौ च कार्पण्यान्मौर्ख्याद्राधेयसौबलौ ॥ 5-4-2(31758)
बलदेवस्य वाक्यं तु मम ज्ञाने न युज्यते।
एतद्धि पुरुषेणाग्रे कार्यं सुनयमिच्छता ॥ 5-4-3(31759)
न तु वाच्यो मृदुवचो धार्तराष्ट्रः कथंचन ।
नहि मार्दवसाध्योऽसौ पापबुद्धिर्मतो मम ॥ 5-4-4(31760)
गर्दभे मार्दवं कुर्याद्गोषु तीक्ष्णं समाचरेत् ।
मृदु दुर्योधने वाक्यं यो ब्रूयात्पापचेतसि ॥ 5-4-5(31761)
मृदुं वै मन्यते पापो भाषमाणमशक्तिकम् ।
हितमर्थं न जानीयादबुद्धिर्मार्दवे सति ॥ 5-4-6(31762)
एतच्चैव करिष्यामो यत्नश्च क्रियतामिह ।
प्रस्थापयाम मित्रेभ्यो बलान्युद्योजयन्तु नः ॥ 5-4-7(31763)
शल्यस्य धृष्टकेतोश्च जयत्सेनस्य वा विभो ।
केकयानां च सर्वेषां दूता गच्छन्तु शीघ्रगाः ॥ 5-4-8(31764)
स च दुर्योधनो नूनं प्रेषयिष्यति सर्वशः ।
पूर्वाभिपन्नाः सन्तश्च भजन्ते पूर्वचोदनम् ॥ 5-4-9(31765)
तत्वरध्वं नरेन्द्राणां पूर्वमेव प्रचोदने ।
महद्धि कार्यं वोढव्यमिति मे वर्तते मतिः ॥ 5-4-10(31766)
शल्यस्य प्रेष्यतां शीघ्रं ये च तस्यानुगा नृपाः ।
भगदत्ताय राज्ञे च पूर्वसागरवासिने ॥ 5-4-11(31767)
अमितौजसे तथोग्राय हार्दिक्यायान्धकाय च।
दीर्घप्रज्ञाय शूराय रोचमानाय वा विभो ॥ 5-4-12(31768)
आनीयतां बृहन्तश्च सेनाबिन्दुश्च पार्थिवः ।
सेनजित्प्रतिबिन्ध्यश्च चित्रवर्मा सुवास्तुकः ॥ 5-4-13(31769)
बाह्लीको मुञ्जकेशश्च चैद्याधिपतिरेव च।
सुपार्श्वश्च सुबाहुश्च पौरवश्च महारथः ॥ 5-4-14(31770)
शकानां पह्लवानां कर्णवेष्टश्च पार्थिवः ॥
सुरारिश्च नदीजश्च कर्णवेष्टश्च पार्थिवः ॥ 5-4-15(31771)
नीलश्च वीरधर्मा च भूमिपालश्च वीर्यवान् ।
दुर्जयो दन्तवक्रश्च रुक्मी च जनमेजयः ॥ 5-4-16(31772)
आषाढो वायुवेगश्च पूर्वपाली च पार्थिवः ।
भूरितेजा देवकश्च एकलव्यः सहात्मजैः ॥ 5-4-17(31773)
कारूषकाश्च राजानः क्षेमधूर्तिश्च वीर्यवान् ।
काम्भोजा ऋषिका ये च पश्चिमानूपकाश्च ये ॥ 5-4-18(31774)
जयत्सेनश्च काश्यश्च तथा पञ्चनदा नृपाः ॥
जानकिश्च दुर्धर्षः पार्वतीयाश्च ये नृपाः ॥ 5-4-19(31775)
जानकिश्च सुशर्मा च मणिमान्योतिमत्सकः।
पांशुराष्ट्राधिपश्चैव धृष्टकेतुश्च वीर्यवान् ॥ 5-4-20(31776)
तुण्डश्च दण्डधारश्च बृहत्सेनश्च वीर्यवान्।
अपराजितो निषादश्च श्रेणिमान्वसुमानपि ॥ 5-4-21(31777)
बृहद्बलो महौजाश्च बाहुः परपुरंजयः ।
समुद्रसेनो राजा च सह पुत्रेण वीर्यवान् ॥ 5-4-22(31778)
उद्भवः क्षेमकश्चैव वाटधानश्च पार्थिवः ।
श्रुतायुश्च दृढायुश्च साल्वपुत्रश्च वीर्यवान् ॥ 5-4-23(31779)
कुमारश्च कलिङ्गानामीश्वरो युद्धदुर्मदः ।
एतेषां प्रेष्यतां शीघ्रमेतद्धि मम रोचते ॥ 5-4-24(31780)
अयं च ब्राह्मणो विद्वान्मम राजन्पुरोहितः।
प्रेष्यतां धृतराष्ट्राय वाक्यमस्मै प्रदीयताम् ॥ 5-4-25(31781)
यथा दुर्योधनो वाच्यो यथा सान्तनवो नृपः ।
धृतराष्ट्रो यथा वाच्यो द्रोणश्च रथिनां वरः ॥ ॥ 5-4-26(31782)
इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि चतुर्थोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-4-2 कार्पण्यात् तदन्नभक्षणेन दैन्यात् ॥ 2 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|